प्रथमावृत्तिः
सूत्रम्॥
भस्य॥ ६।४।१२९
पदच्छेदः॥
भस्य ६।१ १७५ १।१ १।२।३
अर्थः॥
अधिकारोऽयम् आ अध्याय-परिसमाप्तेः। यत् इतः ऊर्ध्वम् अनुक्रमिष्यामः भस्य इत्येवं तत् वेदितव्यम्।
उदाहरणम्॥
वक्ष्यति पादः पत् - द्विपदः पश्य, द्विपदा कृतम्॥
काशिका-वृत्तिः
भस्य ६।४।१२९
भस्य इत्ययम् अधिकारः आ अध्यायपरिसमाऽप्तेः। यदित ऊर्ध्वम् अनुकमिष्यामः भस्य इत्येवं तद्वेदिव्यम्।
न्यासः
भस्य। , ६।४।१२९
बाल-मनोरमा
भस्य २३१, ६।४।१२९
भस्य। इत्यधिकृतं स्पष्टमेव। यूषशब्दो मण्डवाची। "मुद्गामलकयूषस्तु भेदी दीपनपाचनः" इत्यादि वैद्यशास्त्रे प्रसिद्धम्। तस्य शसि "पद्दनः" इति यूषन्नादेशे यूषन्-असिति स्थिते।